वांछित मन्त्र चुनें

त्वं न॑ इ॒न्द्रा भ॑रँ॒ ओजो॑ नृ॒म्णं श॑तक्रतो विचर्षणे । आ वी॒रं पृ॑तना॒षह॑म् ॥

अंग्रेज़ी लिप्यंतरण

tvaṁ na indrā bharam̐ ojo nṛmṇaṁ śatakrato vicarṣaṇe | ā vīram pṛtanāṣaham ||

पद पाठ

त्वम् । नः॒ । इ॒न्द्र॒ । आ । भ॒र॒ । ओजः॑ । नृ॒म्णम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । वि॒ऽच॒र्ष॒णे॒ । आ । वी॒रम् । पृ॒त॒ना॒ऽसह॑म् ॥ ८.९८.१०

ऋग्वेद » मण्डल:8» सूक्त:98» मन्त्र:10 | अष्टक:6» अध्याय:7» वर्ग:2» मन्त्र:4 | मण्डल:8» अनुवाक:10» मन्त्र:10